TS Inter 2nd Year Sanskrit Grammar पत्रलेखनम्

Telangana TSBIE TS Inter 2nd Year Sanskrit Study Material Grammar पत्रलेखनम् Questions and Answers.

TS Inter 2nd Year Sanskrit Grammar पत्रलेखनम्

1. धनयाचनार्थं पितरं प्रति पत्रम्

छात्रावासात्
दिनाङ्कः 22 – 7 -2019

आदरणीय पितृवर्य !

सादरं नमामि । अत्र कुशलं तत्रास्तु । अहं सश्रद्धं विद्याभ्यासं करोमि । अहं कानिचन पुस्तकानि क्रेतुम् इच्छामि । एतदर्थं रूप्यकाणां सहस्त्रं कृपया प्रेषयतु भवान् ।

मातृचरणयोः मम प्रणामाः ।

भवदीयः पुत्र / भवदीया पुत्री
श्रीनिवासः / अहल्या

TS Inter 2nd Year Sanskrit Grammar पत्रलेखनम्

2. मातरं प्रति मित्रस्य गृहागमननिवेदनम्

छात्रावासात्
दिनाङ्कः 22-7-2019

पूज्यमातः !

सादरं नमामि । अत्र कुशलं तत्रास्तु | अहं सश्रद्धं विद्याभ्यासं करोमि । अचिरेण वार्षिकपरीक्षाः भविष्यन्ति । तदनन्तरम् अहं ग्रीष्मावकाशे गृहम् आगमिष्यामि । मम मित्रम् अपि अस्माकं गृहम् आगमिष्यति । अहम् अस्माकं ग्रामं क्षेत्रं च मम मित्रं दर्शयिष्यामि । पितृचरणयोः मम प्रणामाः ।

भवदीयः पुत्र / भवदीया पुत्री
श्रीनिवासः / अहल्या

ग्रामनाम न लेखनीयम् ।

3. पुस्तकक्रयणाय प्रबन्धकं प्रति पत्रम्

दिनाङ्कः 22-7-2019

प्रबन्धकः
गीताप्रेस् मुद्रणालयः
गौरखपुरम्
उत्तरप्रदेश:
आर्य !

TS Inter 2nd Year Sanskrit Grammar पत्रलेखनम्

विषय:- भगवद्गीतापुस्तकक्रयणम् ।

नमस्कारः । सविनयं निवेदयामि यत् मम कलाशालायां सद्यः भगवद्गीताश्लोकपठनस्पर्धा भविष्यति । अतः एकं भगवद्गीतापुस्तकं न्यूनेन मूल्येन अधः प्रदत्तं सङ्केतं प्रति कृपया प्रेषयतु भवान् ।

भवद्विधेयः / भवद्विधेया
श्रीनिवासः / अहल्या
द्वितीयवर्षम्
राजकीय माध्यमिककलाशाला
भाग्यनगरम्,
तेलङ्गाणाराज्यम्

Note : नगरनाम न परिवर्तितव्यम् ।

4. अवकाशप्रदानाय प्राचार्यं प्रति पत्रम्

दिनाङ्कः 22-7-2019

सेवायाम्
श्रीमान् प्राचार्यमहोदयः
उच्च माध्यमिक विद्यालय:
भाग्यनगरम्
महोदय !

सविनयं निवेदयामि यत् अहम् ज्वरग्रस्तः अस्मि । शिरोवेदना च मां पीडयति । अतः अद्य विद्यालयम् आगन्तुं न शक्रोमि । कृपया 23-7- 2019 तः 26 – 7 – 2019 पर्यन्तं दिनत्रयस्य अवकाशं प्रदाय माम् अनुगृह्णातु ।

भवतः शिष्यः / भवदीया शिष्या
श्रीनिवासः / अहल्या
द्वितीयवर्षम्
उच्च माध्यमिकविद्यालयः
भाग्यनगरम्

Note : नगरनाम न परिवर्तितव्यम् ।

TS Inter 2nd Year Sanskrit Grammar पत्रलेखनम्

Leave a Comment