Telangana TSBIE TS Inter 1st Year Sanskrit Study Material 6th Poem मातृगीतम् Textbook Questions and Answers.
TS Inter 1st Year Sanskrit Study Material 6th Poem मातृगीतम्
लघुसमाधनप्राशन: (Short Answer Questions) (స్వల్ప సమాధాన ప్రశ్నలు)
प्रश्न 1.
मनसः रसायनानि कानि ?
उत्तर:
अम्बायाः मधुराणि दृशः हि मनसः रसायनानि ।
प्रश्न 2.
मन्दः अपि किम् अध्यैषि ?
उत्तर:
मन्दः अपि गीर्वाणवाण्याः त्रिचतुः पदानि अध्यैषि ।
प्रश्न 3.
कस्य जिह्वा धन्या ?
उत्तर:
यस्य जननी भक्त्या संबोधने संसक्ता सा जिह्वा धन्या ।
प्रश्न 4.
स्तुतिपाठकानां बलं कुत्र विद्यते ?
उत्तर:
यत्र राजकपक्षशक्तिः, वृत्तपत्रे प्रचारेः च भवति तत्र स्तुतिपाठकानां बलं विद्यते ।
एकवाक्यसमाधानप्रश्नाः (One Word Answer Questions) (ఏకవాక్య సమాధాన ప్రశ్నలు)
प्रश्न 1.
का स्वल्पे जीवितकाले अनल्पं पुण्यमार्जितवती ?
उत्तर:
जननी स्वल्पे जीवितकाले अनल्पं पुण्यमार्जितवती ।
प्रश्न 2.
अद्यापि ग्रामे कस्याः सुगुणकीर्तनं विदधते ?
उत्तर:
अद्यापि ग्रामे जनन्याः (मातुः ) सुगुणकीर्तनं विदधते ।
प्रश्न 3.
प्राणिनां परं सुखदा का ?
उत्तर:
प्राणिनां परं सुखदा जननी ।
प्रश्न 4.
सकलदेशे कस्य प्रचारः भवतु इति कविः वदति ?
उत्तर:
सकलदेशे संस्कृतस्य प्रचारः भवतु इति कविः वदति ।
व्याकरणांशाः (Grammar) (వ్యాకరణము)
सन्धय :
1. वृथैव = वृथा + एंव – वृद्धिसन्धिः
2. नैवाचरित = नैव + आचरित – सवर्णदीर्घसन्धिः
3. यथेच्छम् = यथा + इच्छम् – गुणसन्धिः
4. चर्चत्यहो = चर्चति + अहो – यणादेशसन्धिः
5. पुण्य + आर्जने = पुण्यार्जने – सवर्णदीर्घसन्धिः
कठिनशब्दार्था :
1. सुरवाचि = देववाण्याम्
2. फलमनर्घम् = अमूल्यं फलम्
3. धृतिमेत्य = धैर्यं प्राप्य
4. पुण्यदे = पुण्यप्रदात्रि
5. सुखदा = सुखं ददाति इति
6. निर्व्याजकृपा = निष्कलङ्कदया
7. कृतवद्यिाः = विद्यार्जनं कृतवान् जनः
8. अवाप्तजीविकः = प्राप्तजीविकः
9. आढ्यम् = विशिष्टम्
10. दन्दह्यमावहृदयम् = पौनःपुन्येन दह्यमानं हृदयम्
11. पीयूषम् = अमृतम्
12. अज्ञम् = न जानातीति (मूर्खम् )
13. गुआ = शुष्कदशायां गुञ्जतीति (आन्ध्रभाषायां गुरुविन्द इति कथ्यते)
14. स्वाधस्स्थम् = स्वस्य अधस्स्थम्
15. द्वेष्टि = द्वेषं करोति
संस्कृतभाषाकौशलम्
द्वितीयाविभक्तिं प्रयुज्य वाक्यानि लिखत ।
(ద్వితీయ విభక్తిని ఉపయోగించి వాక్యాలను వ్రాయుము.)
1. एकवचनम् – छात्रः विद्यालयं (विद्यालयः) गच्छति ।
द्विवचनम् – बालकः हस्तौं प्रक्षालयति ।
बहुवचनम् – शिष्याः आचार्यान (आचार्याः) वन्दते ।
प्रश्न 2.
एकवचनम् – कवि : ……………………. (श्लोकः) लिखति ।
द्विवचनम् – बन्धु : …………….. (पादौ) प्रक्षालयति ।
बहुवचनम् – बालिका : ……………….. (गुरवः) सेवन्ते ।
उत्तर:
एकवचनम् – कवि : श्लोकं ( श्लोकः) लिखति ।
द्विवचनम् – बन्धुः पादौ ( पादौ ) प्रक्षालयति ।
बहुवचनम् – बालिकाः गुरुन (गुरवः) सेवन्ते ।
प्रश्न 3.
एकवचनम् – गुरुः ……………….. (रामायणम्) पठति ।
द्विवचनम् – रामः ……………… (पितरौ) पश्यति ।
बहुवचनम् – वध्वः ………….. (बन्धवः) पश्यन्ति ।
उत्तर:
एकवचनम् – गुरुः रामायणम् (रामायणम्) पठति ।
द्विवचनम् – रामः पितरौ (पितरौ ) पश्यति ।
बहुवचनम् – वध्वः बन्धून (बन्धवः) पश्यन्ति ।
प्रश्न 4.
एकवचनम् – धाता ……………….. (वेदः) श्रृणोति ।
द्विवचनम् – बालिके ……………… (गुरु) वन्दते ।
बहुवचनम् – गाव: ………………… (वनानि) गच्छन्ति ।
उत्तर:
एकवचनम् – धाता वेदं (वेदः) श्रृणोति ।
द्विवचनम् – बालिके गुरु (गुरु) वन्दते ।
बहुवचनम् – गावः वनानि (वनम्) गच्छन्ति ।
प्रश्न 5.
एकवचनम् – बालिका ………………… (हरिकथा) कथयति ।
द्विवचनम् – वधूः …………….. (बन्धु) वन्दते ।
बहुवचनम् – गोपालकाः ……………. ( गावः ) सेवन्ते ।
उत्तर:
एकवचनम् – बालिका हरिकथां (हरिकथा ) कथयति ।
द्विवचनम् – वधूः बन्धू (बन्धु) वन्दते ।
बहुवचनम् – गोपालकाः गाः (गावः) सेवन्ते ।
प्रश्न 6.
एकवचनम् – जननी …………………. (फलरसः) पिबति ।
द्विवचनम् – वानरः ……………….. (फले) खादति ।
बहुवचनम् – ऋषयः ……………….. (पुराणानि) श्रुण्वन्ति ।
उत्तर:
एकवचनम् – जननी फलरसं (फलरसः) पिबति ।
द्विवचनम् – वानरः फले (फले) खादति ।
बहुवचनम् – ऋषयः पुराणानि (पुराणानि) श्रुण्वन्ति ।
प्रश्न 7.
एकवचनम् – वधूः ……………… (वर) पश्यति ।
द्विवचनम् – जननी ……………… (कथे) कथयति ।
बहुवचनम् – कृषकाः …………….. ( क्षेत्राणि) गच्छन्ति ।
उत्तर:
एकवचनम् – वधूः वरं (वर) पश्यति ।
द्विवचनम् – जननी कथे (कथे) कथयति ।
बहुवचनम् – कृषकाः क्षेत्राणि (क्षेत्राणि) गच्छन्ति ।
प्रश्न 8·
एकवचनम् – वृद्धः ………………. (फलम्) खादति ।
द्विवचनम् – कृषकः ……………… (गावौ) सेवते ।
बहुवचनम् – छात्राः ……………… (कथाः) श्रृण्वन्ति ।
उत्तर:
एकवचनम् – वृद्धः फलम् (फलम्) खादति ।
द्विवचनम् – कृषकः गावौ (गावौ ) सेवते ।
बहुवचनम् – छात्राः कथाः (कथाः) श्रृण्वन्ति ।
प्रश्न 9.
एकवचनम् – पुत्रः …………………. (जनकः) सेवते ।
द्विवचनम् – बालिके ……………….. (पुष्पे) पश्यतः ।
बहुवचनम् – वध्वः ………………. (स्तोत्राणि) पठन्ति ।
उत्तर:
एकवचनम् – पुत्रः जनकं (जनकः) सेवते ।
द्विवचनम् – बालिके पुष्पे (पुष्पे) पश्यतः ।
बहुवचनम् – वध्वः स्तोत्राणि (स्तोत्राणि) पठन्ति ।
प्रश्न 10.
एकवचनम् – शिष्य ………………. (शिक्षिका) वन्दते ।
द्विवचनम् – ऋषयः …………….. (वने) गच्छन्ति ।
बहुवचनम् – पुरुषा ……………… (श्लोकाः) लिखन्ति ।
उत्तर:
एकवचनम् – शिष्य शिक्षिकां (शिक्षिका) वन्दते ।
द्विवचनम् – ऋषयः वने (वने) गच्छन्ति ।
बहुवचनम् – पुरुषा श्लोकाः (श्लोकाः ) लिखन्ति ।
‘च’ (and) कारस्य प्रयोग :
रामायणं महाभारतं भगवद्गीतां च॒ पठति ।
अन्नं सूपं व्यञ्जनं दधि च खादति ।
बालकः विद्यालयं ग्रन्थालयं देवालयं च गच्छति
दुग्धं फलरसं कषायं च पिबति ।
सेवां पूजाकार्यं च करोति ।
‘च’ कारं प्रयुज्य उदाहरणवाक्यानुसारं उत्तरं लिखत ।
उदा. बालकः कि पठति ?
रामायणं महाभारतं भगवद्गीतां च पठति ।
प्रश्न 1.
बालकः किं खादति ? ………………… खादति ।
उत्तर:
अन्नं सूपं व्यञ्जनं च खादति ।
प्रश्न 2.
बालकः कुत्र गच्छति ? ………………. गच्छति ।
उत्तर:
विद्यालयं ग्रन्थालयं देवालयं च गच्छति ।
प्रश्न 3.
बालकः किं पिबति ? …………………. पिबति ।
उत्तर:
दुग्धं फलरसं कषायं च पिबति ।
प्रश्न 4.
बालकः किं करोति ? ……………… करोति ।
उत्तर:
सेवां पूजाकार्यं च करोति ।
प्रश्नवाचक शब्दः – ‘कथम्’ – how
कोष्ठस्यैः पदैः उत्तरं लिखत ।
शीघ्रम (Fast) (వేగంగా) × मन्दम् (slowly) (నెమ్మదిగా)
उच्चै (loudly) (అరవడం) × नीचैः (low) (చిన్నగా)
प्रश्न 1.
वरः कथं गच्छति ? ……………………. । (शीघ्रम)
उत्तर:
वरः शीघ्रं गच्छति ।
प्रश्न 2.
वधूः कथं गच्छति ? ……………………….. (मन्दम्)
उत्तर:
वधूः मन्दम् गच्छति ।
प्रश्न 3.
व्याघ्रः कथं धावति ? ……………………. । (शीघ्रम्)
उत्तर:
व्याघ्रः शीघ्रम धावति ।
प्रश्न 4.
गजः कथं चलति ? ………………….. । (मन्दम्)
उत्तर:
गजः मन्दम चलति ।
प्रश्न 5.
कविः पद्यं कथं गायति ? ……………………… । (उच्चैः)
उत्तर:
कविः पद्यं उच्चैः गायति ।
प्रश्न 6.
सीता कथं वदति ? ………………………….. । (नीचैः)
उत्तर:
सीता नीचैः वदति ।
प्रश्न 7.
गुरुः वेदं कथं पठति ? ……………………….. । (उच्चैः)
उत्तर:
गुरुः वेदं उच्चैः पठति ।
प्रश्न 8.
घटोत्कचः कथं हसति ? ………………….. । (उच्चैः)
उत्तर:
घटोत्कचः उच्चैः हसति ।
प्रश्न 9.
वधूः कथं कथयति ? ………………… । (नीचैः)
उत्तर:
वधूः नीचैः कथयति ।
भावः (Substance) (తాత్పర్యము)
1. व्यासवाल्मीकि भवभूति कालदास –
बाणभासादि – कविवरान् मनसिकृत्य ।
लिखति चापलचोदितो मातृगीत- मम्ब !
सुरवाचि श्रीहरिस्ते कृपाऽस्तु ॥
Substance : I Srihari, while offering my salutations to the great poets Vyasa, Valmiki, Bhavabhooti, kalidasa, Banabhatta, Bhasa, with’ the goddess’ blessings I am going to write this book Mathrugeetham.
తాత్పర్యము : వ్యాసుడు, వాల్మీకి, భవభూతి, కాళిదాసు, భాణభట్టు, భాణుడు మొదలైన శ్రేష్ఠులైన కవులకు నమస్కరించి చాపల్యముచే ప్రోత్సహించబడిన వాడినై మాతృగీతము అను పుస్తకమును కవినైన శ్రీహరి అను నేను రచించబూనుచున్నాను. నీ దయ నాపై ఉండుగాక.
2. यस्या वचांसि मधुराणि परं सुधाया
यस्या दृशश्च मनसो हि रसायनानि ।
या चैव दैवमिह पूज्यतमं तयाऽद्य
मात्रा तु जीवितगती रहिता वृथैव ॥
Substance : The person whose words are as sweet as the divine nectar (Amrutam), whose looks are delicious fluids to one’s mind, who is as great as god and one’s life who doesn’t have such mother is waste.
తాత్పర్యము : ఎవరి మాటలు అమృతము కంటే తియ్యనైనవో, ఎవరి చూపులు మనస్సునకు మధురమైన పానీయములో, ఏ తల్లి పూజింపదగిన ఉత్తమమైన దైవమో అటువంటి తల్లి లేని బ్రతుకు వ్యర్థము.
3. स्वल्पे जीवितकालेऽ
नल्पं खलु पुण्यमार्जितवती त्वम् ।
तस्यैव फलममर्च
ह्यनुभवति जननि ! जनोऽविशिष्टोऽयम् ॥
Substance : O mother, you’ve achieved great punya in a very less lifetime. The punya you’ve earned is the only reason we are able to enjoy the good results in the world.
తాత్పర్యము : తల్లీ నీవు కొద్దిపాటి జీవిత కాలములోనే చాలా గొప్ప పుణ్యరాశిని సంపాదించుకొన్నావు. నీవు సంపాదించిన ఆ పుణ్యముతోనే భూలోకములో మిగిలి ఉన్న మంచి ఫలితములను అనుభవించుచున్నాము.
4. अथवा मम शान्तिदायकं
तव रूपं हृदये स्मरन् सदा ।
धृतिमेत्य तु यापयाम्यहं
कथमप्यम्ब ! कृपावशेन तें ॥
Substance: With you in our mind we are able to attain peace to our hearts and live courageously.
తాత్పర్యము : నీ యొక్క రూపమును మనస్సులో తలచుకొనుచు శాంతిని పొందుచున్నాము. ధైర్యముతో జీవించగలుగుచున్నాము.
5. तव चरणसरोजे पुण्यदे भक्तियुक्त्या
न च जननि ! पवित्रे सेवितुं भाग्यमस्ति ।
अपि तु मम तदीयध्यान एवास्तु नित्यं
मन इह परिलग्नं शान्तिसन्धानदक्षे ||
Substance: We got a chance to serve your blissful feet. Hence we hope that we will have that chance to pray and serve your feet forever.
తాత్పర్యము : పుణ్యరూపములైన నీ పాదములను పవిత్రములైన మిమ్మల్ని. సేవించుటకు మాకు అదృష్టము కలిగినది. కనుక ఆ పాదములను ధ్యానిం చుకొను అదృష్టము మాకెల్లప్పుడును కలుగచేయవలసినది.
6. जननी खलु प्राणिनां परं
सुखदा ! नैव समा तया क्वचित् ।
अत एव हि सा महीयसी
त्रिदिवादम्ब ! गरीयसी माता ॥
Substance : To all the beings, only mother can provide such great happiness. There is no one in the world to equal her. Presence of mother is the only reason that makes earth a better place than heaven.
తాత్పర్యము : సమస్త ప్రాణులకును తల్లి మాత్రమే గొప్ప సుఖమును కలిగించును. ఆమెకు సమానమైనవారు ప్రపంచములో లేరు. తల్లి ఉండుట చేతనే భూమి స్వర్గము కంటే గొప్పదైనది.
7. अध्यैषि मन्दोऽपि कयाञ्चिदम्ब
गीर्वाणवाण्यास्त्रिचतुष्पदानि ।
इत्यस्य हेतुर्महतां गुरुणां
तवापि निर्व्याजकृपैव केवलम् ॥
Substance: Only due to my mother’s benignity, I was blessed by my teachers and was able to learn few words in Sanskrit.
తాత్పర్యము : తల్లి యొక్క అనుగ్రహము చేతనే గురువుల యొక్క అనుగ్రహము పొంది, నేను సంస్కృత భాషలోని మూడు, నాలుగు పదములైనను నేర్చు కొనగలిగినాను.
8. यस्य तु जिह्वा भक्त्या
जननी सम्बोधने च संसक्ता ।
सा खलु जिह्वा धन्या
रसमा लोलुपाः परा मातः ॥
Substance: Whosever tongue is excited to speak about mother and address her, is the only one blessed.
తాత్పర్యము : ఎవ్వరి నాలుక తల్లిని సంబోధించుటయందు ఆసక్తి కలిగి యుండునో ‘వారి నాలుక మాత్రమే ధన్యమైనది.
9. अद्यापि ते सुगुणकीर्तनमस्मदीय-
ग्रामे जना विदधते गुणपक्षपातात् ।
त्वद्गौरवेण वयमप्यभिमानभाज-
स्तेषां परं तव गुणातिशयः प्रशस्यः ||
Substance: Even now, our villagers praise your qualities and virtues. Due to the respect by praising good people like you, we are also feeling proud.
తాత్పర్యము : ఇప్పటికినీ నీ యొక్క సద్గుణములను పొగడుటలోనే మన పల్లె యందలి జనులు అభిమానము చూపుచున్నారు. నీ పేరు వలన మేము -కూడా మన ఊరి జనులకు అభిమాన పాత్రులమైనాము.
10. कृतविद्यः समवाप्तजीविको
यदिहाहं सुखजीवनं करोमि ।
अयि मातः ! सुकृतं त्वया कृतं
परमं चाढ्यममुष्य कारणम् ||
Substance : O mother! Your good deeds (punya) is the only reason that I was able to complete my studies, to earn a living and to live.
తాత్పర్యము : ఓ తల్లీ ! నేను నీ దయవల్లనే చదువు పూర్తిచేసి బ్రతుకుతెరువు పొంది నేను బ్రతుకుచున్నాననగా నీవు చేసిన గొప్ప పుణ్యమే దీనికి కారణము.
11. अम्बेति मातरिति भो जननीति भक्त्या |
नित्यं प्रयत्तिभरितो भवतीं यथेच्छम् ।
सम्बोद्धुमद्य करुणामयि ! नास्ति भाग्यं
मातर्विधिर्मयि परं च दयाविहीनः ॥
Substance : Being able to call u Amba! Mata! Janani, and whatever I wish to call you when I think of you makes me the luckiest. But God wasn’t kind to me.
తాత్పర్యము : అంబా ! మాతా ! జననీ మొదలైన పదములతో నిన్ను తలచుచూ నా ఇష్టప్రకారము పిలిచి శరణుకోరుట కంటే నాకు మరియొక అదృష్టము లేదు. కాని దైవము నాపై దయచూపలేదు.
12. अधीतं यत्किञ्चिज्जननि ! तव भोः सत्करुणया
पदं चापि प्राप्तं किमपि सुखवजीवनकरम् ।
सतां वात्सल्यस्याप्यभवमिह पात्रं गुणवतां
तथापीदं जन्माऽफलमगुणि ते प्रेमरहितम् ॥
Substance : I got education and a job to live happily. And I’m also loved by some good people. But I feel my life isn’t fruitful as I was not able to experience your unconditional love.
తాత్పర్యము : నాకు కొంత చదువు వచ్చినది. సుఖముగా జీవితం గడుపుటకు అవసరమైన ఉద్యోగం కూడా దొరికినది. సజ్జనుల ప్రేమకు కూడా పాత్రడును అయినాను. కాని నీ ప్రేమను పూర్తిగా పొందలేకపోయినందున జన్మ సఫలం కాలేదని భావించుచున్నాను.”
13. संस्कारमुख्यसुगुणान्वित शालिनी त्वं
विद्यावती नहि परं न च लोप एषः ।
विद्याफलं त्वयि तु भाति महान विवेकः
कार्यं विना भवति कारणमत्र चित्रम् ||
Substance: Dear mother! As you have dignity, character and other main qualities, being uneducated was never your fault. Education is the reason for wisdom. But without the reason, you having the wisdom astonishes me.
తాత్పర్యము : తల్లీ ! నీవు సంస్కారము మొదలైన ప్రధాన గుణములు కలిగి ఉన్నదానివగుటచే చదువు లేకపోవుట నీకెప్పటికినీ లోపము కాదు. చదువు వివేకమునకు కారణమైనది. కాని కారణము లేకనే కార్యమైన వివేకము నాయందు ఉండుట మిక్కిలి ఆశ్చర్యము కలిగించును.
14. सन्त्यज्य हे जननि ! कुत्र गतासि बालं
दीनं च मातृविरहेण सुदुस्सहेन ।
दन्दह्यमानहृदयं तव मां कुमारं
निस्संश्रयं विदधती दशवर्षकल्पम् ॥
Substance : I, not even being ten years old, having nowhere to go, saddened at my heart due to your absence, O mother ? Where did you go leaving me in that situation !
తాత్పర్యము : పదేండ్లనను నిండని వాడును, వేరొక ఆశ్రయము లేనివాడును, హృదయమున బాధపడుచున్నవాడును తల్లి లేకపోవుటచే మిక్కిలి బాధపడుచున్న దీనుడైన నన్ను వదిలి నీవెక్కడికి పోయితివి తల్లీ !
15. इच्छा नास्ति धनार्जने मम परा भोगेषु वा चञ्चले-
स्वास्था नास्ति यशस्यपि च मे चिन्ता प्रभुत्वेऽस्थिरे ।
सर्वं चैतदनन्तदुर्भरमहादुःखैकमूलं ततो
नित्यज्ञानसमार्जनेऽम्ब भवताल्लग्ग्रा मतिर्मे सदा ॥
Substance: I don’t have any desire on riches or luxuries, that are earthly or fame or power that is varying. All these are the reasons for endless pain. Hence I hope my mind is always on the quest for knowledge every day.
తాత్పర్యము : నాకు ధనము సంపాదించుటయందు కాని, చంచలమైన సుఖముల పైన కాని, కీర్తిపై గాని అస్థిరమైన అధికారముపై గాని ఆశలేదు. ఇవన్నియు అంతులేని, భరించలేని దుఃఖమునకు కారణమగుచున్నవి. కనుక నిత్యమును జ్ఞానమును సంపాదించుకొనుటయందే నా మనస్సు నిలిచి ఉండుగాక !
16. सत्कार्यं करणीयं
वचनीयं मृदु हितं च वाक्यं सत् ।
अभ्यसनीया शान्ति-
दूरीकरणीय एव कोपगुणः ||
Substance: Good deeds should be done, Good and kind words should be spoken, peace should be practiced, anger should be left.
తాత్పర్యము : మంచి పని చేయవలెను. మృదువుగాను, హితమును కలిగించు మాటలను పలుకవలెను. శాంతిని అలవరచుకొనవలెను. కోపమును దూరము చేసుకొనవలెను.
17. अनुकम्पा दीनजने
गुरुजनसेवा च सततकरणीया ।
इति ते जीवितसरणे-
र्ज्ञातोऽम्ब ! मया तु जीवने सारः ॥
Substance : Weak people should be treated kindly, Teachers and preceptors should always be served, I got to know all these things from your life style. This is the essence of life.
తాత్పర్యము : దీనులపై దయ చూపవలెను. గురువులను ఎప్పుడునూ సేవించ వలెను అను విషయములు నీ జీవన సరళిని చూచిన తర్వాత నాకు తెలిసినవి. ఇదియే జీవన సారం.
18. प्रेमाख्यं पीयूषं
सन्तत्यै जननि ! भूरि वर्षन्त्या ।
कोटित्रयमपि दैवं
तुल्यं तद्भवति मातृदेव्या किम् ? ||
Substance : Can all the god and goddesses equal you, O mother, who are showering your children with divine nectar (amrutha) called love.
తాత్పర్యము : నీ సంతానముపై ప్రేమ అను పేరు గల అమృతమును వర్షించుచున్న నీకు (మాతృదేవతకు) ముక్కోటి దేవతలైనను సమానము కాగలరా ?
19. तव दिव्यपदारविन्दयो
रयि मातः ! परिपूतयोः ।
नतमस्तकमेव भक्तितो
न च भाग्यं मम सेवने चिरम् ॥
Substance : I didn’t have the luck to have a lot of time to serve and rest near your blissful feet.
తాత్పర్యము : దివ్యమైన, పవిత్రమైన నీ పాదములపై శిరసు వంచి నమస్కరించు అదృష్టము నాకు ఎక్కువ కాలము లేకపోయినది.
20. ज्ञानार्जने भवतु मेऽम्ब ! मतिः स्थिरा च
पादस्मृतौ तव सदा सरतान्मतिर्मे ।
पुण्यार्जने च महिते लगतान्मनो मे
सश्चिन्तने च हृदयं भवतात्सुलग्नम् ॥
Substance : Mother! My mind should always be stable! My thoughts should always be on serving your blissful feet! My mind should be eager to do good deeds always! And my heart should be fixed upon only good things and deeds!
తాత్పర్యము : తల్లీ ! నా బుద్ధి జ్ఞానార్జనము నందు స్థిరమై ఉండుగాక ! నా ఆలోచన నీ పాద స్మరణ పైననే నిలుచుగాక ! మనస్సు వుణ్యమును నంపాదించుట పై ఆసక్తి కలిగియుండుగాక ! హృదయము మంచి విషయమును గూర్చి ఆలోచిం చుటయందే లగ్నమై ఉండుగాక
21. गीर्वाणभाषेति पदानभिज्ञम्
आभाष्यनध्याप्य तु रामशब्दात् ।
मां धन्यमातन्वत ये कृपालवः
तान्नित्यमम्ब ! प्रणते गुरुनहम् ॥
Substance: I salute to my teachers who taught me everything from Rama Sabda to the end of Mahabhashya when I had no idea about anything in Sanskrit.
తాత్పర్యము : సంస్కృత భాష ఉన్నదని ఆ పదము కూడా తెలయని నాకు దయతో రామ శబ్దము నుండి మహాభాష్యము చివరివరకు పాఠము చెప్పిన గురువులకు నమస్కరించుచున్నాను.
22. यावत् प्रोज्झितभोजन-
पत्रेषु बुभुक्षितैः पुलाकानि ।
मृग्यन्ते दीनजनै-
स्तावन्न जननि ! पुरोगतो देशः ॥
Substance : In India there are poor peSple who Search for food through the waste baskets and used plates. With such poverty India will not develop.
తాత్పర్యము : భారతదేశములో ఎంగిలాకులలో పారవేసిన గోధుమ రొట్టెలను ఆకలితో ఉన్నవారు వెతుక్కొని తినుచున్నారో అట్టివారు ఉన్నంత వరకు దేశము అభివృద్ధి పొందదు.
23. शीतातपवर्षादीन्
सहमानो बाधया परं दीनः ।
यावत् पथितलवास-
स्तावान्न पुरोगतो देशः ||
Substance : As far as people live on roads refraining heat, cold and rain, India will not develop.
తాత్పర్యము : చలి, ఎండ, వర్షము తట్టుకొనుచు రోడ్లపై, వీధులలో నిద్రించుచు ఉన్నవారు ఉన్నంత వరకు ఈ దేశమునకు అభివృద్ధి కలుగదు.
24. तनुमाच्छादयितुं वै
वासो याक्तु न लभते मनुजः ।
दीनः करुणापात्रं
तावन्न जननि ! पुरोगतो देशः ॥
Substance: This country will not develop until all the humans can’t earn to cover and protect themselves with clothes.
తాత్పర్యము : నిండుగా శరీరమును కప్పుకొనుటకు తగిన వస్త్రమును ఎప్పటివరకు మనుష్యుడు సంపాదించుకొనలేడో అంతవరకు దేశమునకు అభివృద్ధి కలుగదు.
25. जानाति नैवाम्ब ! दरिद्रतां पुन –
दारिद्र्यनिर्मूलनमेव भाषते ।
करोति नैवाम्ब ! च लोकसेवां
लोकाधिपत्यं तु समीहते जनः ॥
Substance: Mother! All those people who know nothing about poverty are just saying words about poverty alleviation. They are doing no service and are just hoping for power on all the citizens.
తాత్పర్యము : అమ్మా దారిద్ర్యము అంటే తెలియనివారు దారిద్ర్యము నిర్మూలించాలని మాటలు మాత్రమే చెప్పుచున్నారు. ఏమాత్రమును ప్రజాసేవ చేయక ప్రజలపై అధికారమును కోరుకొనుచున్నారు.
26. क्षुधातुरे नैव दयां करोति
मुष्टिप्रमाणं न ददाति पिण्डम् |
समर्पयत्यम्ब ! तु दैवपेट्यां
सहस्ररुप्याणि धनी विचित्रम् ॥
Substance: They don’t feed hungry; they don’t even donate a handful of rice to the needy but those rich people fill the Hundis with thousands of rupees. Isn’t this surprising ?
తాత్పర్యము : ఆకలిగొన్న వారిపై దయచూపరు. పిడికెడు అన్నపు ముద్దకూడా వారికి పెట్టరు. కాని డబ్బున్నవారు వేలకొలది ధనమును హుండీలలో, వేయుచున్నారు. ఇది ఆశ్చర్యము కదా !
27. वेदीषु चोद्धुष्यति साम्यवादं
सुवाक् सदैवाम्ब ! तु मुक्तकण्ठम् ।
परन्तु नैवाचरति स्ववाक्यं
परोपदेशे खलु पण्डिताः समे ॥
Substance : Everyone gets on to the stage and speaks about equality and fraternity and they themselves don’t follow it. But while preaching to others everyone is a scholar!
తాత్పర్యము : అందరూ ఉపన్యాస వేదికలెక్కి సామ్యవాదమును గూర్చి పెద్దగా మాట్లాడుదురుగాని తాము చెప్పిన దానిని ఎవ్వరు తామే ఆచరింపరు. ఇతరులకు చెప్పటంలో మాత్రం అందరూ పండితులే.
28. अज्ञं विज्ञं कुरुते
विज्ञं चीप्यज्ञमेव पदवी सा ।
धर्ममधर्मं कुरुते
चाधर्मं धर्ममम्ब ! लोकेऽस्मिन् ॥
Substance : Power can make a fool important and a scholar. Similarly, in today’s world that power can make the right (dharma), wrong (dharma) and can make the wrong dharma) into right dharma).
తాత్పర్యము : అధికారము మూర్ఖుని పండితుని చేస్తుంది. అలాగే ఈ లోకంలో అధికారం ధర్మాన్ని అధర్మంగాను, అధర్మాన్ని ధర్మంగాను మార్చి వేయగలదు.
29. स्तुतिपाठकानां बलमस्ति येषां
येषां पुना राजकपक्षशक्तिः ।
येषां प्रचारः खलु वृत्तपत्रे
त एव विद्वांस इहाऽधुवाऽम्ब ! ॥
Substance : Those who have the support of people who applaud for anything under false pretenses, those who have the support of political parties, who can publicize in their own-newspapers are the scholars in the present day world.
తాత్పర్యము : ఎవ్వరికి పొగడ్తలు చేయువారి బలమున్నదో, రాజకీయ పక్షాలతో పరిచయం ఉంటుందో, వార్తాపత్రికలలో ప్రచారం చేసుకోగలరో వారే ఈ కాలంలో పండితులు.
30. सर्वोऽपि हि परदोषान्
प्रकटयति न पश्यति स्वदोषान् ।
गुआ न हि जानीते
स्वाधस्स्थं जननि ! मलिनमङ्गं वै ॥
Substance : Just like the ‘guruvinda’ seed that doesn’t know about the black on its bottom, all those people who point at others mistakes don’t know their own mistakes.
తాత్పర్యము : గురువింద గింజకు తన క్రింది భాగంలో ఉండే నలుపు గురించి తెలయనట్లే ఇతరుల దోషాలను గురించి చెప్పే వారెవ్వరికీ తమలోని దోషం గురించి తెలియదు.
31. अभ्यस्यते नैव हि देववाणी
नाधीयते वाङ्मयमम्ब ! तस्याः ।
नो चिन्त्यतेऽस्या विविधोपयोगो
निर्हेतु तां द्वेष्टि च हेतु दी ॥
Substance: A hethuvaadi doesn’t learn Sanskrit, doesn’t study its literature, doesn’t think of its uses but without any reason hates Sanskrit.
తాత్పర్యము : హేతువాది సంస్కృత భాషను నేర్చుకోడు. దానిలో ఉండే సాహిత్యం చదువడు. ఉపయోగాల గురించి ఆలోచించడు. కాని కారణం లేకుండానే సంస్కృత భాషను నిందిస్తాడు.
32. भवतु सकलदेशे संस्कृतस्य प्रचारः
पुनरपि सुरवाणी यातु पीर्वं महत्त्वम् ।
सकलमनुजकण्ठैर्घुष्यतां देववाणी
जगति भवतु मान्यं संस्कृतं मातृदेशे ॥
Substance : In all the countries a campaign shouiu ue hern for popularizing Sanskrit. Sanskrit rauage should obtain its past glory. Everyone should speak SansKrit. In our country and in the whole world Sanskrit should be given the status of Divine language.
తాత్పర్యము : అన్ని దేశాలలో సంస్కృతానికి ప్రచారం కలగాలి. సంస్కృత భాషకు పూర్వవైభవం రావాలి. సంస్కృత భాష అందరి గొంతులలో పలకాలి. మన దేశంలోను, ప్రపంచంలోను సంస్కృతానికి పూజ్యస్థానం కలగాలి.
33. कश्चिच्छ्रमं नैव करोति लोके
तथापि सौख्यं लभते नितान्तम्
सदैव चान्यः कुरुते परिश्रमं
तथापि मातर्लभते न सौख्यम् ॥।
Substance: A person might not know anything bout hardships and lead his whole life with happiness and sophistication. Whereas another might have to work hard always and end up with no happiness at all.
తాత్పర్యము : ఒకడు లోకంలో కష్టమంటే ఏమిటో తెలయనివాడు ఉంటాడు.’ వాడికి అన్ని సుఖాలు కలుగుతాయి. మరొకడు ఎప్పుడూ కష్టపడుతూనే ఉంటాడు. కాని ఎప్పటికీ సుఖాన్ని పొందలేడు.
34. ग्रामं न पश्यति न गच्छति तं कदापि
नैवात्र तिष्ठति कदापि जनैः सहाम्ब ! ।
तेभ्यो न साधु विदधाति च कर्म किञ्चित्
चर्चत्यहो सदसि तत्प्रगतिं तु चित्रम् ॥
Substance : None of the leaders, saw a village or went to a village or spoke with villagers. They might not have done anything that is useful to a village. But these leaders enter an assembly and speak about the development and welfare of such villages all the time ! How bizarre!
తాత్పర్యము : ఏ’ నాయకుడూ పల్లెను చూడడు. అక్కడికి వెళ్ళడు, అక్కడి జనులను కలసి మాట్లాడడు. గ్రామానికి ఉపయోగపడే పని చేయడు. కాని సభల్లో ఎప్పుడూ గ్రామాభివృద్ధి గురించి చర్చిస్తాడు. ఇది ఎంతో విచిత్రం కదా !
35. स्वदेशवेषं तु धरन्ति नैव
स्वदेशभाषां तु वदन्ति नैव ।
स्वसम्प्रदायांस्तु चरन्ति नैव
तथापि वेदीषु वदन्ति संस्कृतिम् ॥
Substance : He doesn’t wear the clothes that are traditional or cultured (Indian) He doesn’t know anything about our
country’s ethnicity or language but he speaks about our country’s culture. How strange!
తాత్పర్యము : మన దేశానికి అనుకూలమైన వేషాన్ని ధరించడు. దేశ భాష సంప్రదాయములు తెలియవు. కాని దేశ సంస్కృతిని గురించి మాట్లాడుతాడు. ఇది చాలా ఆశ్చర్యము కదా !
कविपरिचयः
मातृगीतं नाम पाठ्यभागोऽयं महामहोपाध्याय आचार्य रव्वा – श्रीहरि – पण्डितेन रचितात् मातृगीतम इति काव्यात् इति काव्यात् गृहीतः । अयं महानुभावः श्रीमती वेङ्कटनरसम्मा – श्रीनरसय्य इत्याख्ययोः पुण्यदम्पत्योः सुतः । तेलङ्गणा – राज्ये नलगोंड – जिल्लायां वलिगोडाख्य – जनपदसमीपस्थ – वेलुवर्ति – ग्रामः एतेषां जन्मस्थलमस्ति | 1943 तमे वर्षे सेप्टेम्बर्-मासस्य सप्तमतिनाङ्कः महोदयस्यास्य जन्मतिथिः ।
संस्कृते, तेलुगुभाषायां च कृतभूरिपरिश्रमः आचार्य रव्वा श्रीहरिपण्डितः उस्मानिया – विश्वविद्यालये, भग्यनगरस्थ – केन्द्रीयविश्वविद्यालये च प्राचार्यत्वं निरुह्य 2001 तमे वर्षे आन्ध्रप्रदेशे स्थितस्य कुप्पं द्रविडविश्वविद्यालयस्य उपकुलपतित्वम् अध्यगच्छत् । ततश्च तिरुमलतिरुपतिदेवस्थानीय – ग्रन्थमुद्रापणविभागस्य प्रधानसम्पाद कपदवीं निरवहत् । अयं सि ना रे महाभागस्य ‘प्रपञ्चपदी, झाबुवा – महाभागस्य ‘फिरदौसी’, ‘वेमनशतकम्’, शेषप्पकवेः ‘नरसिंहशतकम्’ इत्यादि प्रसिद्धनि काव्यानि संस्कृतेन अनुदितवान् । आबाल्यात् व्याकरणशास्त्रे कृतधीरयं विद्वान् कीशिकासहित – पाणिनीय – अष्टाध्याय्याः तेलुगुभाषया व्याख्यानं व्यरचयत् ।
Introduction
This poem is taken from the book Mathrugeetham written by Mahamahopadhyaya Prof. Rawa Srihari. He is bom to the blessed couple Smt. Venkata Narasamma and Sri Narasayya Veluvarthi, a village near Valigoda in Nalgonda district in Telangana is his birth place. He is bom on 7-9-1943. He worked as professor in Osmania University, Central University of Hyderabad and in 2001 was Telangana appointed as Vice chancellor of Kuppam Dravida University in Andhra Pradesh.
After that he worked as Chief Editor in publishing division of Tirumala Tirupad Devasthanam. He translated C.N. Reddy’s ’Prapancha padulu’, Jashuva’s ‘Phirdausi’, Vemana Sathakam, Seshappa’s ‘Narasimha Sathakam’ and many other great telugu books into Sanskrit. Prof. Srihari being a scholar in grammar, authored the commentary of Kasikasahita-panineeya Ashtadhyayi in telugu.
కవి పరిచయం
‘మాతృగీతం’ అనే ఈ పాఠ్యభాగము మహామహోపాధ్యాయుడైన ఆచార్య రవ్వా శ్రీహరి గారిచేత రచించబడిన “మాతృగీతం” అనే పుస్తకము నుండి గ్రహించబడినది. ఈయన శ్రీమతి వేంకట నరసమ్మ, శ్రీ నరసయ్య అనే పేరు కలిగిన పుణ్యదంపతుల కుమారుడు. తెలంగాణా రాజ్యమునందు నల్గొండ జిల్లాలో వలిగోడు అనే పల్లె సమీపమునందున్న వేలువర్తి అనే పేరుగల గ్రామము వీరి జన్మస్థలము 7-9-1943 వ సంవత్సరములో ఈయన జన్మించిరి.
సంస్కృత, తెలుగు భాషలయందు గొప్ప పరిశ్రమ చేసిన ఈయన ఉస్మానియా విశ్వవిద్యాలయ మందు, భాగ్యనగరములో ఉన్న కేంద్రీయ విశ్వ విద్యాలయమందు ఉపన్యాసకులుగా పనిచేసి 2001 వ సంవత్సరంలో ఆంధ్రప్రదేశ్లో ఉన్న కుప్పం ద్రవిడ విశ్వవిద్యాలయము యొక్క ఉపకులపతి పదవిని పొందెను. తరువాత తిరుమల తిరుపతి దేవస్థానములోని గ్రంథముద్రణ విభాగమునకు ప్రధాన సంపాదక పదవిని నిర్వహించెను.
ఈయన సి.నా.రె గారి ప్రపంచ పదులు, జాషువాగారి పిరదౌసి, వేమన శతకము, శేషప్ప కవి గారి నరసింహ శతకము మొదలైన ప్రసిద్ధ గ్రంథములను సంస్కృతము లోనికి అనువదించిరి. చిన్నతనము నుండి వ్యాకరణ శాస్త్రము నందు సమర్థులైన ఈ పండితుడు కాశికా సహిత పాణిని అష్టాధ్యాయినికి తెలుగు భాషలో వ్యాఖ్యానమును రచించెను.
मातृगीतम् Summary in Sanskrit
“मातृदेवो भव” इति श्रुतिवाक्यम् अतुसृत्य स्वमातुः भारतमातुश्च वैशिष्ट्यं आधुनिकलोकाय ज्ञापयितुं आचार्य रव्वा-श्रीहरिमहाभागः मातृगीतं कालिदासादि- नाम काव्यम् अरचयत् । प्रारम्भे व्यास – वाल्मीकि कविवरेण्यान् प्रणम्य, सः स्वमातुः अनुरागं वर्णयन् मातृसमा सुखदा क्वचित् न दृश्यते, सा तु त्रिदिवादपि गरीयसी इति प्रस्तौति । यत्किञ्चित् अधीतम्, समाजे यच्चं पदं प्राप्तम् तत्सर्वं मातुः पुण्येनैवेति मातरम्प्रति, स्वविनयं प्रकटीकरोति । “सत्कार्यं करणीयम्, मृदु हितं च वक्तव्यम् शान्तिः अभ्यसनीया, कोपः दूरीकरणीयः” इति वदन् यदि सर्वेऽपि जनाः एतदतुसरन्ति तर्हि मातृदेशस्यौन्नत्यं वर्धत इति अभि । लोके दरिद्रतां दृष्ट्वा अनुकम्पन्ते किन्तु न किमपि यच्छन्ति धनायकाः, ते यथा परोपकाररताः भवन्ति तथा तान् परिवर्तय हे अम्ब ‘ इतेि प्रर्थयति । अपि च अयं संस्कृतस्य प्राचीनवैभवम् आनेतुं भवतु सकलदेशे संस्कृतस्य प्रचारः, पुनरपि सुरवाणी यातु पूर्वं महत्वम्’ इति अम्बां प्रार्थयति ।
मातृगीतम् Summary in English
Following the Vedic sentence “Mathrudevo Bhava”, Prof. Rawa Srihari wrote this poem (kavya) ‘Mathrugeetham’ to bring Mother’s and India’s greatness and glory to everyone’s notice. Firstly, starting off with saluting the great poets like Vyasa, Valmiki and Kalidasa, he described his mother’s love. He started praising her saying that there is no one in this world, who can equal a mother and that she is the greatest among all the three worlds.
He showed his respect towards mother saying that to obtain any position in this world, it is mother’s good deeds (punya) that make it possible. He felt that by everyone following “Do good deeds, speak good, be peaceful and leave anguish” the respect towards the country increases. Some people are saddened seeing the poverty in the world. But what are these bad leaders’ desires? When will they turn into good humans? He prayed his mother to bring a change in them. He also hoped for a campaign for Sanskrit language so that it retains its past glory as Divine language.
मातृगीतम् Summary in Telugu
“మాతృదేవో భవ” అను వేద వాక్యమును అనుసరించి తన తల్లి యొక్క భారతదేశము యొక్క గొప్పతనమును ఆధునిక ప్రపంచమునకు తెలియ జేయుటకు ఆచార్య రవ్వా శ్రీహరిగారు మాతృగీతమ్ అనుపేరు గల కావ్యమును రచించెను. మొదట వ్యాసుడు, వాల్మీకి, కాళిదాసు మొదలగు కవులకు నమస్కరించి ఆయన తన తల్లి ప్రేమను వర్ణిస్తూ తల్లితో సమానమైన వారు మరియొకరు ఉండరు.
ఆమె మూడు లోకములలోకెల్ల గొప్పది అని స్తోత్రము చేసెను. ఏదైన నేర్చుకొనుటకు, సమాజములో ఏదైనా పదవిని పొందుటకు ఆమె పుణ్యమే కారణమని తల్లి యందు తన వినయమును ప్రకటించెను. “మంచి పనిచేయుము, మంచిగా మాట్లాడుము, శాంతిని నేర్చుకొనుము, కొపమును దూరము చేయుము” అని చెప్పి, దీనిని అందరూ ఆచరించినట్లైతే మాతృదేశ గౌరవము పెరుగును అని అభిప్రాయపడెను. లోకములోని దారిద్ర్యమును చూసి కొందరు బాధపడతారు. కాని ఈ చెడ్డ.
నాయకులు ఏమి కోరుచున్నారు ? వారు ఎప్పుడు పరోపకారులుగా కాగలరో ? వారిని ఆ విధముగా మార్చుము అని అమ్మను ప్రార్థించుచున్నాడు. ఇంతేకాకుండా సంస్కృత భాషకు ఇంతకు ముందు ఉన్న వైభవమును తీసుకొని వచ్చుటకు అన్ని దేశములలో సంస్కృత భాషా ప్రచారము జరిగి మరల దేవ భాష అయిన సంస్కృతము పూర్వవైభవమును పొందుగాక ! అని తల్లిని ప్రార్థించుచున్నాడు.